२७०

अथैतेषां महतां ब्राह्मणानां समुदितमारुणेर्जीवलस्य कारीरादेरषाढस्य सावयस्येन्द्र द्युम्नस्य भाल्लवेयस्येति ।

जीवलश्च ह कारीरादिरिन्द्र द्युम्नश्च भाल्लवेयस्तौ हारुणेराचार्यस्य सभागावाजग्मतुः ।

ते हाषाढस्य गृहेषु शिश्यिरे ।

स होवाचाषाढ आमारुणे यत्सहैव ब्रह्मचर्यमचराव सहान्वब्रवीवह्यथ केनेदं त्वमस्मानत्यनूचिषे ।

यदिदं त्वमियत्प्रियः कीर्तेरियत्प्रियश्चक्षुषः इयत्प्रियः सनेरसि केन त्वमिदं प्रापिथेति ।

स होवाच धूर्ष्वेवाहं तदुपास इति ।

किं त्वं तद्धूर्षूपास्स इति ।

प्रियमिति ।

य आसां प्रियमुपास्ते किं स भवतीति ।

प्रिय एव स कीर्तेर्प्रियश्चक्षुषः प्रियः सनेर्भवतीति ।

एवमेव त्वमसीति होचुः ।

अथ होचुर्जीवलं कारीरादिं यदिदं त्वमेव तस्यार्धस्य श्रेष्ठोऽसि यस्मिन्नस्यपि त्वा राजानोऽधस्तादुपासते केन त्वमिदं प्रापिथेति ।

स होवाच धूर्ष्वेवाहं तदुपास इति ।

किं त्वं तद्धूर्षूपास्स इति ।

श्रियमिति ।

य आसां श्रियमुपास्ते किं स भवतीति ।

यस्मिन्नेवार्धे भवति तस्य श्रेष्ठो भवत्यप्येनं राजानोऽधस्तादुपासत इति ।

एवमेव त्वमसीति होचुः ।

अथ होचुरषाढं सावयसं यत्त्वं शार्कराक्षाणां वाव ग्रामण्येवासि केन त्वमिदं प्रापिथेति ।

स होवाच धूर्ष्वेवाहं तदुपास इति ।

किं त्वं तद्धूर्षूपास्स इति ।

जातमिति ।

य आसां जातमुपास्ते किं स भवतीति ।

यत्रैव सजातो भवति तद्ग्रामणीर्भवतीति ।

एवमेव त्वमसीति होचुः ।

अथ होचुरिन्द्र द्युम्नं भाल्लवेयं यदिदं तवोपर्युपर्यन्यान्कीर्तिश्चरति विवचनमेवासि केन त्वमिदं प्रापिथेति ।

स होवाच धूर्ष्वेवाहं तदुपास इति ।

किं त्वं तद्धूर्षूपास्स इति ।

यश इति ।

य आसां यश उपास्ते किं स भवतीति ।

उपर्युपर्येवान्यान्कीर्तिश्चरति विवचनमेव भवतीति ।

एवमेव त्वमसीति होचुः ।

ते होचुरित्थं चेदिदमभूदेतेदं सम्प्रब्रवामहा इति २७१