२६९

तस्य मनसा मनो ध्यायेत् ।

गायत्र्यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत् ।

त्रिष्टुभि प्रस्तुतायां यस्य कामयेत तस्य चक्षुषा चक्षुर्ध्यायेत् ।

जगत्यां प्रस्तुतायां यस्य कामयेत तस्य श्रोत्रेण श्रोत्रं ध्यायेत् ।

अनुष्टुभि प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत् ।

एता उ ह सञ्ज्ञाः ।

सं ह वै तेन जानीते येन कामयतेऽनेन सञ्जानीयेति य एवं वेद ।

अथैता देवधुरश्च मनुष्यधुरश्च सन्दधाति ।

मनो वै मनुष्यधूरापो देवधूः ।

रेतस्यायां प्रस्तुतायां मनसापः सन्दध्यात् ।

तदन्तरा यजमानस्य मनोऽवयातयेत् ।

प्राणो वै मनुष्यधूर्वायुर्देवधूः ।

गायत्र्यां प्रस्तुतायां प्राणेन वायुं सन्दध्यात् ।

तदन्तरा यजमानस्य प्राणमवयातयेत् ।

चक्षुर्वै मनुष्यधूरादित्यो देवधूः ।

त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं सन्दध्यात् ।

तदन्तरा यजमानस्य चक्षुरवयातयेत् ।

श्रोत्रं वै मनुष्यधूर्दिशो देवधूः ।

जगत्यां प्रस्तुतायां श्रोत्रेण दिशः सन्दध्यात् ।

तदन्तरा यजमानस्य श्रोत्रमवयातयेत् ।

वाग्वै मनुष्यधूर्पृथिवी देवधूः ।

अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं सन्दध्यात् ।

तदन्तरा यजमानस्य वाचमवयातयेत् ।

एतद्वै देवधुरश्च मनुष्यधुरश्च सन्दधाते ।

तद्वै देवधुरश्च मनुष्यधुरश्च सन्धाय तं मृत्युं तरति यः स्वर्गलोके ।

न हैवंवित्पुनर्म्रियते ।

देवतास्वात्मानमुपसन्दधाति २७०