तदाहुः किं तद्यज्ञे क्रियते यस्माज्जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति ।
स ब्रूयाद्यस्मात्स्व आयतने गायत्रीं गायति तस्माद्यावज्जीवति तावत्प्राणो नापक्रामतीति ।
अथ ह वै धुरां विज्ञाश्च सञ्ज्ञाश्च ।
मनो वै रेतस्या प्राणो गायत्री चक्षुस्त्रिष्टुप्श्रोत्रं जगती वागनुष्टुप् ।
मनसा सुहार्दसं च दुर्हार्दसं च विजानाति ।
प्राणेन सुरभि चासुरभि च विजानाति ।
चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति ।
श्रोत्रेण श्रवणीयं चाश्रवणीयं च विजानाति ।
वाचा स्वादु चास्वादु च विजानाति ।
एता इह विज्ञाः ।
वि ह वै ज्ञायते श्रेयान्भवति य एवं वेद ।
ता उ एव सञ्ज्ञाः ।
मनो वै रेतस्या प्राणो गायत्री चक्षुस्त्रिष्टुप्श्रोत्रं जगती वागनुष्टुप् रेतस्यायां प्रस्तुतायां यस्य कामयेत २६९