२६७

\गायत्रीं गायति ।

प्राणो वै गायत्रः ।

गायत्रं शिर एव ।

तदायतनो वै प्राणो यच्छिरः ।

स्व एव तदायतने प्राणं दधाति ।

त्रिष्टुभं गायति ।

चक्षुर्वै त्रिष्टुप् ।

तामेव तदाहृत्य शीर्षन्नियुनक्ति ।

यन्नियुनक्ति तस्मान्नियुक्तमिव चक्षुः ।

तामन्यत्रायतनां सतीं नियुनक्ति ।

तस्मादुत जीवत एव चक्षुरपक्रामति ।

जगतीं गायति ।

श्रोत्रं वै जगती ।

तामेव तदाहृत्य शीर्षन्नियुनक्ति ।

यन्नियुनक्ति तस्मान्नियुक्तमिव श्रोत्रं ।

तामन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनाम् ।

तां यदन्यत्रायतनां सतीं नियुनक्ति तस्मादुत जीवत एव श्रोत्रमपक्रामति ।

अनुष्टुभं गायति ।

वाग्वा अनुष्टुप् ।

तामेव तदाहृत्य शीर्षन्नियुनक्ति ।

यन्नियुनक्ति तस्मान्नियुक्तेव वाक् ।

तामन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा सर्वायतनां वा ।

तां यदन्यत्रायतनां सतीं नियुनक्ति तस्मादुत जीवत एव वागपक्रामति ।

अपान्ये प्राणाः क्रामन्ति न प्राणः २६८