२६६

रेतस्यां गायति ।

रेतस्तत्सिञ्चति ।

तद्रे तः सिक्तं गायत्र्योद्वर्धयति वर्षीयसा छन्दसा ।

तत्त्रिष्टुभोद्वर्धयति वर्षीयसा छन्दसा ।

तज्जगत्योद्वर्धयति वर्षीयसैव छन्दसा ।

तद्यद्वर्षीयसा वर्षीयसा छन्दसोद्वर्धयति तस्माद्वर्धमानस्य भूयो भूयो वीर्यं भवति ।

अनुष्टुभा निष्ठं गच्छति ह्रसीयसैव छन्दसा ।

तस्मादुत्तरवयसे प्रतितरामिवाववर्धते ।

पङ्क्त्या निष्ठां गच्छति ।

तस्मात्पञ्चमे मासि गर्भा विक्रियन्ते ।

अनुष्टुभा वाचा निष्ठां गच्छति ।

तस्मादु जीर्णस्य वाचं शुश्रूषन्ते ।

शिरो वा एतद्यज्ञस्य यद्बहिष्पवमानम् ।

तद्वै तत् ।

रेतस्यैवापि सर्व आत्मा स यद्बहिष्पवमाने २६७