गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनम् ।
तदेवानुष्टुबन्वायत्ता ।
स यद्गायत्रं सत्प्रातःसवनं सर्वमेव गायत्रं गायति ब्रह्मण एव तं केवलमुद्धारमुद्धरति ।
सोऽस्य ब्रह्मणः केवल उद्धार उद्धृतो भवति ।
अथ यत्त्रैष्टुभं सन्माध्यन्दिनं सवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणमेव तत्क्षत्रियस्य स्वेऽन्वाभजति ।
सोऽस्मै दित्सति श्रद्धया कर्मणोपचारेण ।
यदा वै क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीच्छति ।
सोऽस्मै ददाति ।
अथ यज्जागतं सत्तृतीयसवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणमेव तद्वैश्यस्य स्वेऽन्वाभजति ।
सोऽस्मै दित्सति श्रद्धया कर्मणोपचारेण ।
यदा वै वैश्यं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीच्छति ।
सोऽस्मै ददाति ।
तदेवानुष्टुबन्वायत्ता ।
अथ यदनुष्टुभं गायति आनुष्टुभो वै शूद्रः ब्राह्मणमेव तच्छूद्र स्य स्वेऽन्वाभजति ।
सोऽस्मै दित्सति श्रद्धया कर्मणोपचारेण ।
यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीच्छति ।
सोऽस्मै ददाति ।
केवलं स्वं कुरुतेऽपित्वी क्षत्रे भवत्यपित्वी विशि ।
यात्यन्तःस्थां नान्तःस्थायां जीयते ।
उप हैनं शतं परिस्कन्दास्तिष्ठन्तेऽथो भूयांसो य एवं विद्वान्धुरो न विगायतीति ।
स यदि विगायेददो विद्वान्विगायेत् ।
यद्यु न विगायेदिदं विद्वान्न विगायेत् ।
आर्तिः सा योऽन्यतरदेव वेदेति ह स्माह शाट्यायनिः २६६