२६४

तिष्ठत इति ।

गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनम् ।

तदेवानुष्टुबन्वायत्ता ।

स यद्गायत्रे सति प्रातःसवने गायत्रीं गायति ब्रह्म वै गायत्री ब्रह्मैव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।

सोऽस्यादित्सत उपजिहीर्षते ।

अथो अस्यैव तत् ।

स्वेऽनु ह्येनमाभजति ।

अथ यत्त्रिष्टुभं गायति क्षत्रं वै त्रिष्टुप्क्षत्रियमेव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।

सोऽस्यादित्सत उपजिहीर्षते ।

अथो अस्यैव तत् ।

स्वेऽनु ह्येनमाभजति ।

अथ यज्जगतीं गायति विड्वै जगती वैश्यमेव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।

सोऽस्यादित्सत उपजिहीर्षते ।

अथो अस्यैव तत् ।

स्वेऽनु ह्येनमाभजति ।

तदेवानुष्टुबन्वायत्ता ।

अथ यदनुष्टुभं गायति आनुष्टुभो वै शूद्रः शूद्र मेव तद्ब्राह्मणस्य स्वेऽन्वाभजति ।

सोऽस्यादित्सत उपजिहीर्षते ।

अथो अस्यैव तत् ।

स्वेऽनु ह्येनमाभजति ।

यद्याविर्नाथो पाकेनैव लिप्सते ।

तस्मान्न विगेया इति ।

यतो ह वा इदमेता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते ।

अथ यर्ह्येता न विजगुरज्येया ह ब्राह्मणा आसुः २६५