२६३

तद्यथा तूष्णीं कशनैर्विहन्यादेवमेवैतानि सर्वाणि शिल्पान्याहृत्य ब्रह्मण्यनक्ति ।

तस्माद्विगेया इति ।

यतो ह वा इदमेता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते ।

अथ यर्हि एता न विजगुरन्नाद्या ह ब्राह्मणा आसुः ।

एकापच्चादेवा हर्वाशत एकशकटे वशे हस्मदमथित्वा सत्ययज्ञः पौलुषिर्याति ।

अथ यत इदमेता विगीयन्ते ततो हैतानि शिल्पानि ब्राह्मणेष्वधिगम्यन्ते ।

गायत्रीं पुरस्ताद्गायति गायत्रीमुपरिष्टात् ।

ब्रह्म वै गायत्री ।

ब्रह्मणैव तदेतान्य् उभयतश्शिल्पानि परिगृह्णाति ।

ब्रह्मणा हैनमेतान्युभयतश्शिल्पानि परिगृहीतान्युपतिष्ठन्ते य एवं वेद ।

न विगेया इत्याहुः पञ्चालाः ।

स्वयं विगीता वा एता यद्धुरः ।

अनुसवनं वा एता विगायन्नभ्यारोहति ।

अथ यदेनान्पापी कीर्त्तिरनूत्तिष्ठति व्यगासिषुरिति ।

यौ वै युध्येते यावृतीयेते तावाहुर्व्यगासिष्टामिति अथो ये राष्ट्रे व्यवबिन्धाने २६४