२६२

कुरवः ।

गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनम् ।

तदेवानुष्टुबन्वायत्ता ।

स यद्गायत्रे सति प्रातःसवने गायत्रीं गायति ब्रह्म वै गायत्री ब्रह्म प्रातःसवनं स्व एव तदायतने ब्रह्म दधाति ।

अथ यत्त्रिष्टुभं गायति क्षत्रं वै त्रिष्टुप् ।

एतानि वै क्षत्रे शिल्पानि हस्ती निष्कोऽश्वतरीरथोऽश्वरथो रुक्मः कंसः तान्येव तदाहृत्य ब्रह्मण्यनक्ति ।

अथ यज्जगतीं गायति विड्वै जगती ।

एतानि वै विशि शिल्पानि गोऽश्वं हस्तिहिरण्यमजाविकं व्रीहियवास्तिलमाषाः सर्पिः क्षीरं रयिः पुष्टिस्तान्येव तदाहृत्य ब्रह्मण्यनक्ति ।

तदेवानुष्टुबन्वायत्ता ।

अथ यदनुष्टुभं गायति आनुष्टुभो वै शूद्रः शूद्रा देव तदाहृत्य ब्रह्मण्यनक्ति २६३