२६१

\सभेयः ।

एवं ह्येतत्कुरुपञ्चाला अविदुः ।

तस्मात्कुरुपञ्चालेषु सर्वैर्वीरैः सह वीर आजायते ।

अथ यर्ह्येतदुदन्ताः पुरा नावेदिषुस्तस्मादुदन्तेषु पुरा सर्वैर्वीरैः सह वीरो नाजनि ।

अथ यत इदमुदन्तानेवंविदश्च सचन्त एवंविदश्चैनान्याजयन्ति ततो हार्वाचीनमुदन्तेषु सर्वैर्वीरः सह वीर आजायते ।

कुरुपञ्चाला ह ब्रह्मोद्यमूदिरे ।

ते ह पञ्चालाः कुरून्पप्रच्छुः किं वयं तद्यज्ञेऽकुर्म येनास्मासु सर्वैर्वीरैः सह वीर आजायत इति ।

तद्ध न प्रत्यूचुः ।

तेन हैनाञ्जिग्युः ।

ते यत्प्रत्यवक्ष्यन्यस्माद्वयमेवंविदश्च स्म एवंविदश्च नो याजयन्ति तेनास्मासु सर्वैर्वीरैः सह वीर आजायत इति ।

सर्वैर्ह वा अस्माद्वीरैः सह वीर आजायते य एवं वेद ।

तदाहुर्विगेया ३धुरा ३धूरो न विगेया ३इति विगेया ३इत्याहुः । २६२