२६०

तां बलवदुपब्दिमतीं निघातं गायेत् ।

निघ्नदिव ह खलु वा एतच्छन्दो यदनुष्टुप् ।

अनुष्टुभा वै वाचा छन्दसा देवा असुरानवाचोऽवाघ्नन् ।

तां यद्बलवदुपब्दिमतीं निघातं गायति भ्रातृव्यो वै पाप्मा भ्रातृव्यमेतत्पाप्मानमवाचमवहन्ति श्रियमात्मनाश्नुते ।

तामधीयन्गायेत् ।

यदनधीयन्गायेदजिह्वा गर्भा जायेरन् ।

अजिह्वा ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।

पङ्क्तिं गायति ।

ऋतवो वै पङ्क्तिः ।

तां गायत्रीमेव प्रसृतां गायति ।

तस्माद्गर्भा जायमानाः प्रसार्यन्ते ।

तामधीयन्गायेत् ।

यदनधीयन्गायेत्सामि गर्भाः पतेयुः ।

सामि ह वै दुरुद्गातुर्वर्तन्यां गर्भा पतन्ति ।

अथ यदेतदुत्तमं तृचं जन्मैव तत् ।

प्रैव तेन जनयति ।

मनो वै रेतस्या प्राणो गायत्री चक्षुस्त्रिष्टुप्श्रोत्रं जगती वागनुष्टुप् ।

स यो मनो रेतस्येति विद्वानुद्गायति महामना मनस्व्यस्मादाजायते ।

अथ यः प्राणो गायत्रीति विद्वानुद्गायति सर्वमायुरेति ।

अथ योऽस्मादाजायते स सर्वमायुरेति ।

अथ यश्चक्षुस्त्रिष्टुबिति विद्वानुद्गायत्यह्रीतमुखी पश्यो दृष्ट्यास्मादाजायते दर्शनीयः ।

अथ यश्श्रोत्रं जगतीति विद्वानुद्गायति शुश्रूषुश्श्रोत्रियोऽस्मादाजायते श्रवणीयः अथ यो वागनुष्टुबिति विद्वानुद्गायति शंस्तोद्गाता वाचाराध्यस्मादाजायते २६१