गायत्रीं गायति ।
प्राणो वै गायत्री ।
तस्यै द्वे अक्षरे व्यतिषजति ।
प्राणापानावेव तद्व्यतिषजति ।
तस्मात्प्राणापानौ तद्व्यतिषक्तौ प्रजा अनुसञ्चरत आ च परा चायातयामानौ ।
तामधीयन्गायेत् ।
यदनधीयन्गायेन्मृता गर्भा जायेरन् ।
मृता ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
त्रिष्टुभं गायति ।
चक्षुर्वै त्रिष्टुप् ।
तस्यै द्वे अक्षरे द्योतयति ।
चक्षुषी एव तद्दधाति ।
तस्माद्युक्ते इव चक्षुषी ।
तामधीयन्गायेत् ।
यदनधीयन्गायेदन्धा गर्भा जायेरन् ।
अन्धा ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
जगतीं गायति ।
श्रोत्रं वै जगती ।
तस्यै चत्वार्यक्षराणि द्योतयति ।
श्रोत्रमेव तद्दधाति ।
श्रोत्रे द्वे परिश्रवणे द्वे ।
तस्मात्समानत्र सन्सर्वा अनुदिशश्शृणोति ।
अपि पराङ्यन्पश्चाद्वदतश्शृणोति ।
तामधीयन्गायेत् ।
यदनधीयन्गायेद्बधिरा गर्भा जायेरन् ।
बधिरा ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते ।
अनुष्टुभं गायति ।
वाग्वा अनुष्टुप् ।
तामर्वाचीमभिनुदन्गायति वाचोऽनपक्रामाय ।
यत्पराचीमपनुदन्गायेद्वाचं प्रधमेद्वागस्मादपक्रामुका स्यात् ।
तां यदर्वाचीमभिनुदन्गायत्यात्मन्नेव तद्वाचं प्रतिष्ठापयति ।
तस्यै निरुक्तं चानिरुक्तं च पदे गायति ।
निरुक्तेन वै वाचो भुञ्जतेऽनिरुक्तमस्या उपजीवनीयम् ।
भुङ्क्ते वाचोप चैनं जीवति य एवं वेद ।
स यन्निरुक्तमेव गायेद्वदेयुरेव प्रजा न तूष्णीमासीरन् ।
अथ यदनिरुक्तं गायेत्तूष्णीमेव प्रजा आसीरन्न वदेयुः ।
यस्मान्निरुक्तं चानिरुक्तं च पदे गायति तस्मात्प्रजा वदन्ति च तूष्णीं चासते २६०