द्विर्ह वै यजमानो जायते मिथुनादन्यज्जायते यज्ञादन्यत् ।
तद्यन्मिथुनाज्जायते तदस्मै लोकाय जायते ।
अथ यद्यज्ञाज्जायते तदमुष्मै लोकाय जायते गन्धर्वलोकाय जायते देवलोकाय जायते स्वर्गलोकाय जायते ।
यज्ञो वै यजमानो यज्ञः सोमो राजा ।
तद्यद्धविर्धाने ग्रावभिस्सोमं राजानमभिषुण्वन्ति यजमानमेव तद्रे तः कुर्वन्ति ।
प्रजापतिरेष यदुद्गाता ।
स त्वष्टा स रेतसः सेक्ता स रूपाणां विकर्ता ।
तद्यद्बहिष्पवमाने रेतस्यां गायति यजमानमेव तद्रे तो भूतं सिञ्चति ।
यदृचमसाम्नीं गायेदस्थ्येव जायते न मांसम् ।
यत्सामानृचं गायेन्मांसमेव जायते नास्थि ।
ऋचं साम्नाभिलिप्तां गायति ।
तस्माल्लोम्ना त्वचा मांसेन पुरुषोऽभिलिप्तो जायते ।
तस्यां न हिङ्कुर्यात् ।
यद्धिङ्कुर्याद्वज्रेण हिङ्कारेण रेतो विच्छिन्द्यात् ।
यो हि तदपि वालेन वीयात्स एवैनद्विच्छिन्द्यात् ।
तामधीयन्गायेत् ।
यदनधीयन्गायेदरेतस्का गर्भा जायेरन् ।
अरेतस्का ह वै दुरुद्गातुर्वर्तन्यां गर्भा जायन्ते २५९