तस्यैष श्लोकः
यदस्य पूर्वमपरं तदस्य
यद्वस्यापरं तद्वस्य पूर्वम्
अहेरिव सर्पणं शाकलस्य
न विजानामि यतरत्पुरस्तात्
इति ।
शकलो ह गौपायनो यज्ञं मिमान इयाय ।
स ह स्मैतन्न विजानाति कतरद्यज्ञस्य पूर्वं कतरदपरं कतरदणीयः कतरद्स्थवीय इति ।
तदाहुः कुतो यज्ञस्यानिष्ठमिति ।
यतो वरिष्ठमिति ।
कुतो वरिष्ठमिति ।
यतोऽणिष्ठमिति ।
बहिष्पवमानं वाव प्रति यज्ञोऽणिष्ठः ।
तदिदं पादाववोचत् ।
पादौ वै प्रति पुरुषोऽणिष्ठः ।
तद्वै वरिष्ठः ।
पद्भ्यां ह्येति ।
कुतो वरिष्ठ इति ।
यतोऽणिष्ठ इति ।
यज्ञायज्ञीयं वाव प्रति यज्ञोऽणिष्ठः ।
तदिदं शिरोऽवोचत् ।
शिरो वै प्रति पुरुषोऽणिष्ठः ।
तद्वै वरिष्ठः ।
अक्षिभ्यां हि पश्यन्नेति ।
तदाहुर्यदूर्ध्वो यज्ञस्तायेत देवा एव जीवेयुर्न मनुष्याः ।
यदर्वाङ्तायेत मनुष्या एव जीवेयुर्न देवा इति ।
ऊर्ध्वश्च ह वै यज्ञस्तायतेऽर्वाङ्चाथो ह तिर्यङ् ।
तद्यत्पृच्छेयुः कद्र य्ङ्यज्ञ इत्यूर्ध्व इति ब्रूयादथो अर्वाङित्यथो तिर्यङ्ङिति ।
सर्वा एव दिश इति ब्रूयात् ।
सर्वा उ ह वै एवंविदो यज्ञस्ततो भवति ।
कुरुपञ्चाला ह ब्रह्मोद्यमूदिरे ।
ते ह श्वानं संवेष्टितं शयानमुपेयुः ।
ते होचुरस्मिन्न्वेव नो विजयोऽध्यस्त्विति ।
ते ह पञ्चालाः कुरून्पप्रच्छुः किमस्य यज्ञस्येवेति ।
तद्ध न प्रत्यूचुः ।
स होवाच वसिष्ठश्चैकितानेयो यथा वा असावदोऽमूमेकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एवं वा अयमिदमुभावन्तौ सन्धाय शये ।
तस्य वा अयं यज्ञक्रतोरनया शय्ययो रूपं निगच्छतीति ।
तस्मादिदमनर्थ्यं सन्तं बिभृतेति ।
तेन ह जिग्युः २५८