\परिमण्डलो भूत्वानन्तो भूत्वा शये ।
तदनुकृतीदमप्यन्या देवता परिमण्डलाः ।
परिमण्डल आदित्यः परिमण्डलश्चन्द्र माः परिमण्डला द्यौः परिमण्डलमन्तरिक्षं परिमण्डलेयं पृथिवी ।
अपि यदिदं पुरुषे दिव्यं तत्परिमण्डलम् ।
एतस्यैव न्यङ्गमनुन्यञ्जानः परिमण्डलां महतीमनन्तां श्रियं जयति य एवं वेद ।
स एष यज्ञ ऊर्ध्व एव पुरुषमन्वायत्तः ।
तस्य पादावेव बहिष्पवमानम् ।
इमान्येव चत्वार्यूर्वष्ठीवान्याज्यानि ।
यदर्वाचीनं नाभेः स त्रिछन्दा माध्यन्दिनः ।
पृष्ठान्येव पृष्ठानि ।
अयमार्भव इदमग्निष्टोमसाम ।
तद्ध नगरिणं दाल्भ्यं ब्राह्मणः पप्रच्छ कद्र य्ङ्यज्ञ इति ।
स होवाचोर्ध्व एव पुरुषमन्वायत्त इति ।
एवं ह तदुवाच ।
स य एवमेतदूर्ध्वमात्मन्यज्ञं तायमानं वेदोर्ध्व एव प्रजया पशुभी रोहन्नेति ।
य उ एनं प्रत्यञ्चं वेद प्रत्यङ्भूतिर्भवति ।
तस्येदमेव बहिष्पवमानमिमान्याज्यान्ययं माध्यन्दिनः पृष्ठान्येव पृष्ठान्ययमार्भवः प्रतिष्ठैव यज्ञायज्ञीयम् ।
प्रत्यङ्भूतिर्भवति ।
य एवमेतावात्मन्यज्ञौ तायमानौ वेदोप हैनं यज्ञौ नमतः २५७