एते ह वै प्रतिव्याहाराः ।
न हैवंविद्यज्ञियामार्तिमार्छति ।
य एवैनमुपवदति स आर्तिमार्छति ।
स य एनमुपवदेत्तं ब्रूयात्पूर्णमेवाहमेतं साङ्गं सतनुं सर्वं यज्ञं वेद स यत्त्वमत्रोनं वेत्थ तत्त्वयैवापिदधानीति ।
स एवार्तिमार्छति य एवं विद्वांसमुपवदति ।
स एष प्रजापतिरग्निष्टोमोऽमूमेकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीसु नवसु प्रत्युपधाय शय एता द्विष्टना विराजो दुहानः पञ्च पञ्चदशानि पञ्च सप्तदशानि ।
ता एव पञ्च द्वात्रिंशिनीर्विराजः ।
दुह्रे ह वै विराजं सर्वान्कामान्य एवं वेद ।
न हैवंविदोऽनृतं चन वदतो यज्ञः स्रवति ।
स्रवति ह वा अनृतं वदतो यज्ञोऽथो ह पूयति ।
नो ह त्वेवंविदो यज्ञः स्रवति न पूयति ।
तस्मात्कुरुपञ्चाला द्विष्टनां दुह्रे ।
प्रजापतेर्हि सा ।
तस्माद्वन्य उदन्ता न दुह्रे ।
न हि ते तां विदुः ।
तस्माद्वन्य उदन्ता अशनायुकतरा इव स एष प्रजापतिरग्निष्टोमः २५६