यद्येनमार्भवस्य पवमानस्य गायत्र्यामनुव्याहरेद्यज्ञस्य प्राणमचीक्ळ्पं यज्ञमारः प्राणस्त्वा हास्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयात्प्रमायुको भविष्यसीति ।
यद्येनमुष्णिक्ककुभोरनुव्याहरेद्यज्ञस्य चक्षुषी अचीक्ळ्पं यज्ञमारोऽन्धो भविष्यसीत्येनं ब्रूयात् ।
यद्येनमनुष्टुभ्यनुव्याहरेद्यज्ञस्य वाचमचीक्ळ्पं यज्ञमारो वाक्तेऽपक्रमिष्यतीत्येनं ब्रूयात् ।
अथो ह ब्रूयादशनया मरिष्यसीति ।
यद्येनं जगत्यामनुव्याहरेद्यज्ञस्य श्रोत्रमचीक्ळ्पं यज्ञमारो बधिरो भविष्यसीत्येनं ब्रूयात् ।
यद्येनं यज्ञायज्ञीयेऽनुव्याहरेद्यज्ञस्य शिरोऽचीक्ळ्पं यज्ञमारश्शिरस्ते विपतिष्यतीत्येनं ब्रूयात् २५५