२५३

अथ माध्यन्दिनस्य पवमानस्य गायत्री ।

योऽयमवाङ्प्राण एष एव सः ।

तस्यां द्वे सामनी ।

तस्मादेतेन द्वयं प्राणेन करोति भस्म च करोति वातं च ।

नाना प्रस्तावौ नाना निधने हिङ्कारोऽन्तरेण ।

तस्मान्नेतर इतरमनुनिनर्दति नेतर इतरम् ।

एतेन हि तद्विहृतम् ।

अथ बृहती ।

योऽयं प्राङ्प्राण एष एव सः ।

तस्यां द्वे सामनी ।

तस्मादेतेन द्वयं प्राणेन करोति रेतश्च सिञ्चति मेहति च ।

नाना प्रस्तावौ नाना निधने हिङ्कारोऽन्तरेण ।

तस्मान्नेतर इतरमनुनिनर्दति नेतर इतरम् ।

एतेन हि तद्विहृतम् ।

अथ त्रिष्टुप् ।

नाभिरेव सा ।

तस्यामेकं साम ।

तस्मादेतेनैकमेव प्राणेन करोति यदेव प्राणानुदनतोऽनूदनिति ।

अथ पृष्टाःनि ।

इन्द्रि यं वै वीर्यं पृष्ठानि ।

तस्माद्ये के चानूकभाजो गोरश्वस्य पुरुषस्य तेषामनूकमेव बलिष्ठम् ।

इन्द्रि यं ह्येतद्वीर्यं यत्पृष्ठानि ।

तानि बृहतीषु भवन्ति ।

तस्मादिमा बृहतीरिव कीकसा बृहतीरिव पशवः पृष्ठमभिसमायन्ति ।

अथार्भवस्य पवमानस्य गायत्री ।

योऽयं प्राण एष एव सः ।

तस्यां द्वे सामनी ।

तस्माद्द्वयं प्राणेन करोति प्राण्यापानिति ।

नाना प्रस्तावौ नाना निधने हिङ्कारोऽन्तरेण ।

तस्मान्नेतर इतरमनुनिनर्दति नेतर इतरम् ।

एतेन हि तद्विहृतम् ।

अथोष्णिक्ककुभौ ।

चक्षुषी ते ।

समानं छन्दः ।

द्वे सामनी ।

तस्माद्द्वे अक्ष्यौ समानं पश्यतः ।

त्रिपदोरृचोर्भवतः ।

तस्मात्त्रिवृच्चक्षुश्शुक्लं कृष्णं कनीनिका ।

परोवरी यस्योरृचोर्भवतः ।

तस्मात्परोवरीयः पुरुषः पश्यति ।

नाना प्रस्तावो नाना निधने हिङ्कारोऽन्तरेण ।

तस्मान्नानावीर्ये चक्षुषी ।

अथानुष्टुभ् ।

वागेव सा ।

तस्यां द्वे सामनी ।

तस्माद्द्वयं वाचा करोत्यन्नं चैनयात्ति वदति च ।

नाना प्रस्तावो नाना निधने हिङ्कारोऽन्तरेण ।

तस्मान्न सर्वं सत्यं वाचा वदति न सर्वमनृतम् ।

एतेन हि तद्विहृतम् ।

अथ जगती ।

श्रोत्रमेव तत् ।

तस्यामेकं साम ।

तस्मादेतेनैकमेव श्रोत्रेण करोति यदेव श्र्णोति ।

चतुष्पदायामृचि भवति ।

तस्मात्समानत्र सन्सर्वा अनु दिशश्शृणोति ।

अपि पराङ्यन्पश्चाद्वदतश्शृणोति ।

अथ यज्ञायज्ञीयम् ।

शिर एव तत् ।

अध्यूढं वा एतदन्येष्वङ्गेषु यच्छिरः ।

अध्यूढमन्येषु स्तोत्रेषु यज्ञायज्ञीयम् ।

अध्यूढोऽन्येषु स्वेषु भवति य एवं वेद ।

उपरि वा एतदन्येभ्योऽङ्गेभ्यो यच्छिरः ।

उपर्यन्येभ्यः स्तोत्रेभ्यो यज्ञायज्ञीयम् ।

उपर्यन्येभ्यः स्वेभ्यो भवति य एवं वेद ।

स एषोऽपहतपाप्मा यज्ञ एव प्रत्यक्षम् ।

तस्य ह नोपवदंश्च न पापं कर्तास्ति ।

यद्येनं बहिष्पवमानेऽनुव्याहरेद्यज्ञस्य रेतः सिक्तमचीक्ळ्पं यज्ञमारोऽरेतस्का ते प्रजा भविष्यतीत्येनं ब्रूयात् ।

यद्येनमेकदेवत्य आज्येऽनुव्याहरेद्यज्ञस्य प्रेतिमचीक्ळ्पं यज्ञमारः प्रेत्य जने मरिष्यसीत्येनं ब्रूयात् ।

यद्येनं द्विदेवत्य आज्येऽनुव्याहरेद्यज्ञस्य प्रतिष्ठामचीक्ळ्पं यज्ञमारोऽप्रतिष्टिःतो भविष्यसीत्येनं ब्रूयात् ।

यद्येनं माध्यन्दिनस्य पवमानस्य गायत्र्यामनुव्याहरेद्यज्ञस्यावाञ्चं प्राणमचीक्ळ्पं यज्ञमारो विघातस्त्वा हनिष्यतीत्येनं ब्रूयात् ।

अथो ह ब्रूयादवस्रावस्त्वा हनिष्यतीति ।

यद्येनं बृहत्यामनुव्याहरेद्यज्ञस्य शिश्नमचीक्ळ्पं यज्ञमारो मूत्रग्राहस्त्वा हनिष्यतीत्येनं ब्रूयात् ।

अथो ह ब्रूयादरेतस्को भविष्यसीति ।

यद्येनं त्रिष्टुभ्यनुव्याहरेद्यज्ञस्य नाभिमचीक्ळ्पं यज्ञमार उदावर्तस्त्व हनिष्यतीत्येनं ब्रूयात् ।

यद्येनं पृष्ठेष्वनुव्याहरेद्यज्ञस्येन्द्रि यं वीर्यमचीक्ळ्पं यज्ञमारो वज्रस्त्वा हनिष्यतीत्येनं ब्रूयात् ।

अथो ह ब्रूयादनाज्ञातवधस्त्वा हनिष्यतीति २५४