२५२

यजमानं ह वा एतदुद्गाता रेतो भूतं सिञ्चति यद्बहिष्पवमानं गायति ।

मन एव रेतस्यया समीरयति प्राणं गायत्र्या चक्षुस्त्रिष्टुभा श्रोत्रं जगत्या वाचमनुष्टुभा ।

आत्मानमेव पङ्क्त्या प्रत्युपदधाति ।

अथ यदेतदुत्तमं तृचं जन्मैव तत् ।

प्रैव तेन जनयति ।

यस्मादेतद्घोषीवोपब्दिमदिव गायते तस्माद्घोषीवोपब्दिमदिव गर्भा जायन्ते ।

तदुवा आहुरघोषमेव गेयम् ।

यदा वै विजायमाना क्रूरिकुरुतेऽथ सा घोषं करोति ।

अथो शनैरिव वा अघोषमिव महाहृष्टिर्विजायते ।

अथो हैतत्सत्यं यद्गायत्रम् ।

तस्य सम्पदं लोभयेद्यद्र थन्तरवर्णां अभ्यस्येत् ।

तस्मादघोषमेव गेयमिति ।

अथाग्नेयमाज्यमेकदेवत्यम् ।

प्रेतिरेव सा ।

अथ मैत्रावरुणं द्विदेवत्यम् ।

प्रतिष्ठितिरेव सा ।

अथैन्द्र मेकदेवत्यम् ।

प्रेतिरेव सा ।

अथैन्द्रा ग्नं द्विदेवत्यम् ।

सा वा एषा प्रेतिश्चैव प्रतिष्ठितिश्च ।

प्रतितिष्ठति य एवं वेद ।

त्रिवृत्पञ्चदशाभ्यां पुरुषोऽस्मिल्ँ लोके प्रतिष्ठितः ।

स यमेव हरति स त्रिवृद्येन प्रतितिष्ठति स पञ्चदशः ।

तौ वा एतावुभावेव त्रिवृतावुभौ पञ्चदशौ ।

तेजो वै ब्रह्मवर्चसं त्रिवृत्स्तोम ओजो वीर्यं पञ्चदशः ।

ओजसैव तद्वीर्येण प्रतिष्ठाय तेजो ब्रह्मवर्चसं हरति य एवं वेद २५३