२५१

स हैवं विद्वानहोरात्रयोरर्धमासशो मासश ऋतुशः संवत्सरश एतस्मिन्सर्वस्मिन्नात्मानमुपसन्धाय तं मृत्युं तरति यः स्वर्गे लोके ।

न हैवंवित्पुनर्म्रियते ।

तस्य हर्ङ्मयान्यस्थानि भवन्ति साममयानि मांसानि ।

स एषोऽपहतपाप्मा धूतशरीरोऽतीत्यैतं मृत्युं शरीरं धूनुते ।

अथैते दैवी च मानुषी च विराजौ ।

तयोरेष एतदादित्योऽध्यूढस्तपति ।

चतस्रो दिशश्चत्वारोऽवान्तरदेशा द्वाविमौ लोकौ ।

एषा दैवी विराट् ।

अथ मानुषी ।

चत्वारोऽत्तारष्षडाद्याः ।

ब्राह्मणश्च राजन्यश्च वैश्यश्च शूद्र श्चैतेऽत्तारः ।

गौश्चाश्वश्चाजाश्चाविश्च व्रीहिश्च यवश्चैत आद्याः ।

एतयोरेष एतदादित्योऽध्यूढस्तपति ।

तन्न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिरस्ति ।

न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर्भवति य एवं वेद २५२