२५०

पञ्चदशान्याज्यानि भवन्ति पञ्चदशापूर्यमाणस्यार्धमासस्य रात्रयः ।

तदेव तेनाप्नोति ।

दश हस्त्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि यदूर्ध्वं नाभेस्तत्पञ्चदशम् ।

तदेवात्रोपसन्दधाति ।

पञ्चदशो माध्यन्दिनः पञ्चदशापोच्छतोऽर्धमासस्य रात्रयः ।

तदेव तेनाप्नोति ।

दश पद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि यदवाचीनं नाभेस्तत्पञ्चदशम् ।

तदेवात्रोपसन्दधाति ।

सप्तदशानि प्र्ष्ठानि ।

द्वादश मासाः पञ्चर्तवः ।

तदेव तेनाप्नोति ।

दश हस्त्या अङ्गुलयः सप्त शीर्षन्प्राणाः ।

तत्सप्तदशम् ।

तदेवात्रोपसन्दधाति ।

सप्तदशार्भवः ।

द्वादश मासाः पञ्चर्तवः ।

तदेव तेनाभिपूर्वमाप्नोति ।

दश पद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि त्रयोऽवाचः प्राणाः ।

तत्सप्तदशम् ।

तदेवात्रोपसन्दधाति ।

एकविंशमग्निष्टोमसाम ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

तदेव तेनाप्नोति ।

दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविंशः ।

तदेवात्रोपसन्दधाति २५१