२४९

तदाहुर्यत्पुरुषो योषां सम्भविष्यन्परोक्षं निलयनमिच्छतेऽन्त एवान्ये पशवोऽन्योन्यस्य स्कन्दन्ति किं तद्यज्ञे क्रियते यस्मात्तत्तथेति ।

स ब्रूयाद्यस्मात्त्रिवृत्स्तोमो बहिष्पवमाने प्राङिवोत्क्रम्य धिष्ण्येभ्यो निलीय गायत्रीं स्कन्दति मध्य एवान्य ऋत्विजो धिष्ण्यानां यदन्त आसते तस्मात्तत्तथेति ।

त्रिवृतं हि स्तोमं पुरुषोऽन्वायत्तो धिष्ण्यानन्ये पशव इति ।

तद्वेवाहुर्यत्स त्रिवृत्स्तोमो गायत्रीं स्कन्दति किं सा ततः प्रजनयतीति ।

इळान्तं यज्ञं सप्तनाभिमिति ब्रूयात् ।

गायत्री गर्भं धत्ते ।

सा पुरोनुवाक्यां प्रजनयति पुरोनुवाक्या याज्यां याज्या वषट्कारं वषट्कार आहुतीराहुतयो दक्षिणा दक्षिणाः स्वर्गं लोकम् ।

तद्यथा वित्तं प्रवाहं क्षिप्रं प्रवहेदेवमेवैनमेता देवताः स्वर्गाय लोकाय प्रवहन्ति ।

त्रिवृदेवैनं स्तोमो गायत्र्यै प्रयच्छति गायत्री पुरोनुवाक्यायै पुरोनुवाक्या याज्यायै याज्यावषट्काराय वषट्कार आहुतीभ्य आहुतयो दक्षिणाभ्यो दक्षिणाः स्वर्गं लोकं गमयन्ति ।

स एष इळान्तो यज्ञः सप्तनाभिः ।

तस्य ह त्रिवृदेव स्तोमो नाभिर्गायत्री नाभिः पुरोनुवाक्या नाभिर्याज्या नाभिर्वषट्कारो नाभिराहुतयो नाभिर्दक्षिणा नाभिः ।

उप हैनं यज्ञो नमति य एवं वेद २५०