तदाहुः स वाद्य यजेत स वान्यं याजयेद्यश्चतुःष्टोमेन याजयन्सर्वस्तोमेन याजयति ।
नवैता बहिष्पवमान्यो भवन्ति ।
तासां सप्तविंशतिः पदानि ।
तेन त्रिणवं स्तोमं नान्तर्यन्ति ।
नवैवैता बहिष्पवमान्यो भवन्ति ।
चतुर्विंशत्यक्षरा गायत्री ।
तत्त्रयस्त्रिंशत् ।
तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति ।
एतद्वै चतुःष्टोमेन याजयति ।
यो वै स्तोमानामवमं परमं वेद गच्छति परमताम् ।
त्रिवृद्वाव स्तोमानामवमस्त्रिवृत्परमः ।
तदु होवाच बर्कुर्वार्ष्णस्त्रिवृतं स्तोमं त्रयस्त्रिंशं भवन्तमपश्यं तस्मादहं परमतामगच्छमिति ।
गच्छति परमतां य एवं वेद ।
विश्वास-प्रस्तुतिः
अथ ह स्माहारुणिः -
किं सो ऽभिचरेत्, किं वाभिचार्यमाण आद्रियेत?
य एतं त्रिवृतं वज्रं त्रिभृष्टिम् अच्छिद्रम् अच्छम्-बट्-कारिणम्
अहर् अहर् इमाल्ँ लोकान् अनुवर्तमानं वेद,
स्वयम् अभिचरितो वाव स -
यम् एवं-विद् द्वेष्टि
यो वैवंविदं द्वेष्टीति ।
एष उ एवैनं त्रिवृद् वज्रस् त्रि-भृष्टिर् अच्छिद्रो ऽच्छम्-बट्-कार्य्
अहर् अहर् इमाल्ँ लोकान् अनुवर्तमानो
ऽभिवर्तते ।
मूलम्
अथ ह स्माहारुणिः किं सोऽभिचरेत्किं वाभिचार्यमाण आद्रियेत य एतं त्रिवृतं वज्रं त्रिभृष्टिमच्छिद्रमच्छम्बट्कारिणमहरहरिमाल्ँ लोकाननुवर्तमानं वेद ।
स्वयम् अभिचरितो वाव स यमेवंविद्द्वेष्टि यो वैवंविदं द्वेष्टीति ।
एष उ एवैनं त्रिवृद्वज्रस्त्रिभृष्टिरच्छिद्रो ऽच्छम्बट्कार्यहरहरिमाल्ँ लोकाननुवर्तमानोऽभिवर्तते ।
English (MT)
Then Āruņi had stated thus:
What should he performing sorcery or being attacked by sorcery worship?
He who knows this threefold vajra, three-pronged, incapable of being cleaved and unbaffled, day after day attended to by these worlds,
himself having has performed sorcery about whom he knowing thus hates, or he who hates him knowing thus.
Verily on by that one this threefold vajra turns, three-pronged, incapable of being cleaved, and unbaffled day after day attended to by these words.
तस्य न भूत्या अल्पिकेव चनाशास्ति परापरैव भवतीति ।
तदु ह स्माहोपजीवः खाळायनोऽहमेवैतं त्रिवृतं वज्रं प्रत्यक्षं वेद तस्माद्यमहं द्वेष्मि यो मां द्वेष्टि तावुभौ श्वः श्व एव पापीयांसौ भवत इति ।
अग्निर्वा अस्य लोकस्य वज्रो वायुरन्तरिक्षस्यादित्यो दिवः ।
तदिदमध्यात्मम् ।
योऽग्निर्वागेव सा यो वायुः प्राण एव स य आदित्यश्चक्षुरेव तत् ।
तस्माद्यदहं द्विषन्तमभिवदामि यदभिप्राणिमि यदभिवीक्षे वज्रमेवाहं तस्मै तं प्रहरामि ।
तस्य न श्रेम्णोऽल्पिकेव चनाशास्ति ।
एता उ एवैनं देवता धूर्वन्ति य एवं विद्वांसं धूर्वतीति ।
अथ ह स्माह श्वेतकेतुरारुणेयो यथाश्वस्य श्वेतस्य कृष्णकर्णस्येत्थादानीतस्य रूपं स्यादेवमेवाहमेतस्य स्तोमस्य रूपं वेद ।
तावद्दृशेन्यं तावद्वपुषेण्यम् ।
तस्मान्मां य एव पूर्वाह्णे दिदृक्षन्ते तेऽपराह्णे दिदृक्षन्ते नैव सुदृशेन्यमिव सन्तम् ।
नाह कदा चन चक्षुष्मन्तं पर्येमीति ।
तदु होवाच शाट्यायनिः कोऽश्वश्श्वेतः किमेकमिति ।
यथैवास्याग्ने रूपं यथा त्विषिर्यथास्य वायोर्यथामुष्यादित्यस्यैवमेवैतस्य स्तोमस्य रूपमेवं त्विषिः ।
तदेवैतत्प्रजा अभिपरिवार्य दिदृक्षमाणास्तिष्ठन्ति ।
तस्माद्बहिष्पवमाने ये च विजानन्ति ये च न ते सर्वेऽनीशाना अभिपरिवार्य दिदृक्षमानास्तिष्ठन्तीति ।
अथो हैता यश एवाप्यन्यासां देवतानाम् ।
तासामेतदिन्द्रि यं वीर्यं रसस्तेजः सम्भृतं यदेता बहिष्पवमान्यः ।
स य एवमेतद्देवतानामिन्द्रि यं वीर्यं रसं तेजः सम्भृतं वेदेन्द्रि यवानेव वीर्यवान्यशस्वी त्विषिमान्भवति २४९