२४७

ता एता नव बहिष्पवमान्यः ।

ताष्षड्बृहत्यः ।

षडु मृत्योर्मुखान्यृतव एव ।

अथ ह वा एतानि मृत्योर्मुखानि बृहत्येव प्रतिविभवितुमर्हति नान्यच्छन्दः ।

स बृहत्यैवर्तोर्मुखमपिदधाति बृहत्यर्तोर्बृहत्यर्तोः ।

स यथा समेन विषममतीत्य प्रत्यवेक्षेतैवमेवैतं मृत्युं पराङतीत्य प्रत्यवेक्षते ।

तमेव तं त्रिवृतं वज्रमुपप्रवर्तयति ।

स एषोऽहरहरिमाल्ँ लोकाननुवर्तते ।

तद्ध स्माह नगरी जानश्रुतेयो न हैव तावद्देवासुरं भविता यावदेष त्रिवृद्वज्रोऽहरहरिमाल्ँ लोकाननुवर्तत ।

ऊर्ध्वा ह्ययमग्निर्दीप्यते तिर्यङ्ङयं वायुः पवतेऽर्वाङसावादित्यस्तपति ।

त एतेऽनिमेषमन्योन्यमीक्षन्ते ।

कथमेतेष्वेवं सत्सु देवासुरं स्यादिति ।

एष उ एवास्य त्रिवृद्वज्रोऽहरहरिमाल्ँ लोकाननुवर्तमानः सर्वं पाप्मानमपघ्नन्पल्ययते य एवं वेद २४७