अथ ह प्रधावयां चकार ।
तस्मिन्न प्रेष्यन्नैमान्ह स्म पृच्छत्यासां विराजामृद्धिम् ।
ते ह स्म नाभ्यापयन्ति ।
य उ ह स्माभ्यापयन्तीति यां ह स्मैकामभ्यापयन्ति ।
स ह स्मरते ब्राह्मणं बताहं ब्राःमणमेतासु मीमांसमानमपश्यमच्छ धावत शैलनमिति ।
तद्व्यचनं हास यथा शैलन इयेष ।
ता एतास्तिस्रो विराजो दैवी यज्ञिया मानुषी ।
सैषा दैवी विराड्यदिमे लोकाः ।
सा न्यूना ।
यजमानावधानायैव तन्न्यूना ।
तदन्तर्यजमानमवदधाति ।
तस्या एतस्यै चन्द्र मा एवापिधानम् ।
एतद्धि देवानां प्रत्यक्षमन्नाद्यं यच्चन्द्र माः ।
अथैषा यज्ञिया विराड्यदेता बहिष्पवमान्यः ।
सा न्यूना ।
यजमानावधानायैव तन्न्यूना ।
तदन्तर्यजमानमवदधाति ।
तस्या एतस्यै हिङ्कार एवापिधानम् ।
हिङ्कारेण ह्येव देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते ।
अथैषा मानुषी विराड्यदिमे पुरुषे प्राणाः ।
सा न्यूना ।
स उ एव यजमानप्रत्यक्षम् ।
तन्न्यूना ।
तस्या एतस्या अन्नमेवापिधानम् ।
नाभिर्वा एतास्तिस्रो विराजः ।
अभि ह तान्कामानाप्नोति य एतासु कामा ।
अपि त्विह तेषु भवत्यति ह पुनर्मृत्युं मुच्यते ।
बहुपुरुषमस्मिल्ँ लोकेऽन्नमत्ति ।
न ह्येतदेकपुरुषायान्नाद्यं यदेतासु ।
यद्ध वै किं चेदमस्मिल्ँ लोक आत्मन्वत्तद्ध सर्वं मृत्युरेवाभिव्यादाय तिष्ठति ।
स यो ह स मृत्युः संवत्सर एव सः ।
तस्य हर्तव एव मुखानि ।
तद्यद्वै किं च म्रियते न हास्यानृतौ म्रियते य एवं वेद ।
ऋतुषु वाव प्रजायते प्रजया पशुभिर्य एवं वेद २४६