तस्यो एव द्वे सवने बृहतीं सम्पद्येते ।
यथैव पुरा तृतीयसवनं तथा तृतीयसवनम् ।
एकान्नसप्ततिः प्रातःसवनस्य स्तोत्रियाः ।
ताष्षट्चत्वारिंशद्बृहत्यः सम्पद्यन्ते ।
या हि तिस्रो गायत्र्यस्ते द्वे बृहत्यौ ।
न ताष्षट्चत्वारिंशद्बृहत्यः सम्पद्यन्ते ।
तदेतदायदेव प्रातःसवनं बृहतीमभिसम्पद्यते ।
यस्मादायदेव प्रातःसवनं बृहतीमभिसम्पद्यते तस्माद्ब्राह्मणो जायमान एव लोकी जायते ।
तं वा त्वै चरणेन भूयांसं कुरुते तं वा कनीयांसम् ।
अथैतद्द्वौ माध्यन्दिनं सवनं सम्पादयत उद्गाता च होता च ।
चत्वारि छन्दांस्युद्गाता युनक्ति ।
तानि च होतानुशंसत्युप च त्रीण्याहरत्यनुष्टुभं पङ्क्तीं जगतीम् ।
गायत्री च जगती च ते द्वे बृहत्यौ ।
उष्णिक्च त्रिष्टुप्च ते द्वे बृहत्यौ ।
अनुष्टुप्च पङ्क्तिश्च ते द्वे बृहत्यौ ।
बृहत्येव बृहती ।
यस्मादेतद्द्वौ माध्यन्दिनं सवनं सम्पादयतस्तस्माद्रा जन्यस्य कार्यो लोक इष्टापूर्तेन श्रद्धया ब्रह्मण्यतया ।
अथ यस्माद्यथैव पुरा तृतीयसवनं तस्मादु ब्राह्मणाच्च राजन्याच्च वैश्यो लोकी ।
इतरो न हि तथा लोकी यथा ब्राह्मणश्च राजन्यश्च २४४