२४३

यज्ञायज्ञीय एकम् ।

गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनम् ।

ब्रह्मणोऽस्य सतः क्षत्रस्येव प्रकाशो भवति वैश्यस्येव रयिः पुष्टिर्य एवं वेद ।

तस्यो एवाक्षरशो गायत्रीमेव प्रातःसवनं सम्पद्यते त्रिष्टुभं माध्यन्दिनं सवनं जगतीं तृतीयसवनम् ।

एकान्नसप्ततिः प्रातःसवनस्य स्तोत्रियाष्षष्टिस्त्रिष्टुभो माध्यन्दिनं सवनं चतुर्विंशतिश्च जगतीस्तृतीयसवनम् ।

एका व ककुप् ।

पुरुषो वै ककुप् ।

स ह स यजमान एवैतस्यां सम्पद्यध्यूढः ।

तद्वत्रैवानुव्येति ।

न किं चनातिरिच्यते ।

एकस्यै ककुभोऽष्टाविंशत्यक्षरायै चत्वार्यक्षराण्यादाय वामदेव्यस्य न्यूने त्रीण्युपदधाति यज्ञायज्ञीय एकम् ।

अथ या गायत्री परिशिष्यते तामद एकान्नसप्तत्यां प्रातःसवनस्य स्तोत्रियासु प्रत्युपदधाति ।

तदु हानन्तम् ।

अनन्तां श्रियं जयति य एवं वेद २४३