२४२

तस्य वा एतस्याग्निष्टोमस्य गायत्रीमेव प्रातःसवनं सम्पद्यते त्रिष्टुभं माध्यन्दिनं सवनं जगतीं तृतीयसवनम् ।

तदेतत्स्वयंसम्पन्नं प्रातःसवनम् ।

गायत्रमेव सर्वम् ।

अथ चत्वारि छन्दांसि माध्यन्दिनं सवनं गायत्री बृहती ककुप्त्रिष्टुप् ।

तस्या एतस्यै ककुभोऽष्टाविंशत्यक्षरायै विंशतिमक्षराणि गायत्र्यामुपदधाति ।

सा त्रिष्टुप्सम्पद्यते ।

अथ यान्यष्टावतिरिच्यन्ते तानि बृहत्यामुपदधाति ।

सा त्रिष्टुप्सम्पद्यते ।

त्रिष्टुबेव त्रिष्टुप् ।

अथ षट्छन्दांसि तृतीयसवनं गायत्र्युष्णिक्ककुभावनुष्टुब्जगती बृहती ।

तस्या एतस्यै गायत्र्यै चतुर्विंशत्यक्षरायै विंशतिमक्षराणि ककुभ्युपदधाति ।

सा जगती सम्पद्यते ।

अथ यानि चत्वार्यतिरिच्यन्ते तान्युष्णिह्युपदधाति ।

सा द्वात्रिंशदक्षरानुष्टुप्सम्पद्यते ।

अनुष्टुबेवानुष्टुप् ।

तां द्वेधा व्यूहति ।

तस्यै षोडशाक्षराण्यनुष्टुभ्युपदधाति ।

सा जगती सम्पद्यते ।

स्वयमेव परस्ताज्जगती ।

अथ यानि षोडशातिरिच्यन्ते तानि यज्ञायज्ञीयस्य बृहत्यामुपदधाति ।

सा द्वापञ्चाशदक्षरा जगती सम्पद्यते ।

चत्वार्यक्षराणि जगतीमतियन्ति य एते चतुष्पादाः पशवः ।

अथो स्तना एव विराजो दोहः ।

अथो प्रतिष्ठैव ।

यथा चतुष्पदी प्रति तिष्ठात्तथा ।

तद्वत्रैवानुव्येति ।

न किं चनातिरिच्यते वामदेव्यस्य्न्यूने त्रीण्युपदधाति २४२