नासावस्तमेति नायमनुगच्छति ।
इममेवासावभ्यस्तमेति ।
तदस्यास्तत्वम् ।
इमं ह्येवासावभ्यस्तमेत्यमुमेवायमभ्यनुगच्छति ।
तदमुष्यामुत्वम् ।
अमुं ह्येवायमभ्यनुगच्छति ।
न हास्तमेति नानुगच्छति य एवं वेद ।
ते हैते सवासिन्यौ देवते ।
गच्छति हैताभ्यां सवासित्वम् ।
अथो हास्यैते एव देवते ।
एषु लोकेषु सर्वपाप्मानमपघ्नत्यौ तिष्ठतः ।
यावदु ह वा अयमग्निरस्मिल्ँ लोके दीप्यते तावदमुष्मिल्ँ लोक आदित्यः ।
न हैव तावदेवंविदो लोकः क्षय्यः ।
यथा ह वा इदमायतनमायतनी प्रेप्सेदेवमिमं लोकमापः प्रेप्सन्ति याश्चामूर्याश्चेमाः ।
ता यन्न सम्भिन्दन्त्येतस्यैव स्तोमस्य कर्तोः ।
एष एवैनाः स्तोमो विददते ।
स यो न्वावैकस्य राज्यस्य त्राता द्वयोर्यस्त्रयाणां लोकी वाव स तेन मन्येत ।
अन्त्ये तु स लोक्यसद्यस्तेषामेकोऽसद्येऽस्य लोकस्य त्रातारः ।
अस्य ह स लोकस्य त्रातॄणामेको भवति य एवं वेद ।
तेन लोकी सः ।
यावद्ध वा अप्येवंविदो ब्राह्मणा भवितारो न हैव तावद्याश्चामूरापो यश्चेमास्ता उभयीः सम्पद्येमं लोकं निर्म्रष्टारः २४१