शश्वद्ध ते पराभूता देवानामशनया ।
अथ य एनमन्वायतन्त इम एतर्हि परिशिष्टाः ।
त उ एवापर्युषि ता भवितारः ।
स हैष वैश्वदेवः स्तोमः ।
विश्वेषां हैव देवानां पुरा स्तोम आस ।
तेन यदग्निमस्तुवन्सास्याग्निष्टोमता ।
अग्निं हैनेनास्तुवन् ।
स्तुवते हैनेन स्वा स्तुवतेऽरणा ।
स्तुवते हैनेन जने स्वा य एवं वेद ।
स हैष नवैकविंशानभिसम्पद्यते द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एका स्तोत्रियातिरिच्यते ।
यजमानो हैव सोऽतिरिच्यते यो वैवं वेद ।
यथा ह गिरौ ज्योतिर्भायादेव तस्यां जनतायां भाति यस्यां भवति य एवं वेद ।
स उ एवैकविंशतिस्त्रिवृतोऽभिसम्पद्यते ।
अग्निर्वै त्रिवृत् ।
तद्यद्वै किं च त्रिवृत्तत्सर्वमग्निमेवाभिसम्पद्यते ।
याश्च ह महत्यः सम्पदो याश्च क्षुल्लकास्ता ह सर्वा एवंविदमभिसम्पद्यन्ते ।
सर्व एनं कामा अभिसम्पद्यन्ते य एवं वेद ।
स एष एकविंशत्या त्रिवृद्भिरमुष्मिन्नादित्ये प्रतिष्ठितो नवभिरसावेकविंशैरस्मिन् ।
तावेतावेवमन्योऽन्यस्मिन्प्रतिष्ठितौ ।
प्रतितिष्ठति य एवं वेद २४०