तं वसवो गायत्र्या छन्दसा गायत्रेण साम्ना प्रातःसवनेनास्तुवन् ।
तांस्तस्मिन्नेव सवन उपाह्वयत ।
तं रुद्रा स्त्रिष्टुभा छन्दसा त्रैष्टुभेन साम्ना माध्यन्दिनेन सवनेनास्तुवन् ।
तांस्तस्मिन्नेव सवन उपाह्वयत ।
तमादित्या जगत्या छन्दसा जागतेन साम्ना तृतीयसवनेनास्तुवन् ।
तांस्तस्मिन्नेव सवन उपाह्वयत ।
तं विश्वे देवा वाङ्मनश्च प्रजापतिरनुष्टुभा छन्दसा यज्ञायज्ञीयेन साम्नास्तुवन् ।
तांस्तस्मिन्नेव स्तोत्र उपाह्वयत ।
एवमेते देवा एतं यज्ञक्रतुमन्वायतन्त अथ य एनं नान्वायतन्त २३९