२३८

तिष्ठन्तीरेके स्रवन्तीरेके ।

स एवमेता अपो व्यूह्य विनुद्यास्मिल्ँ लोकेऽन्नमादत् ।

तन्नाल्पकं न मध्यमं न महदिवान्नाद्यमभ्यत्यरिच्यत ।

एवमेव द्विषन्तं भ्रातृव्यं व्यूह्य विनुद्यास्मिल्ँ लोकेऽन्नमत्ति तन्नाल्पकं न मध्यमं न महदिवान्नाद्यमभ्यतिरिच्यते य एवं वेद ।

तमेतमन्नं जिगीवांसं सर्वे देवा अभिसमगच्छन्त ।

ते वै तन्नाविन्दन्त ।

या ह्यसौ यज्ञायज्ञीयस्यैकविंशी तामासु बहिष्पवमानीसु नवसु प्रत्युपधाय शयेऽनन्तो भूत्वा परिगृह्यैतदन्नाद्यम् ।

अथो यथा पात्रेऽङ्गारा ओप्ताः स्युरेवमेवैषु लोकेष्वदृश्योऽनन्त आस ।

तानविन्दमानानब्रवीत्स्तुत मेति २३८