२३७

आपो वा इदमग्रे महत्सलिलमासीत् ।

तदपामेवैश्वर्यमासीत् ।

यदपामेवैश्वर्यमासीदपां राज्यमपामन्नाद्यं तदग्निरभ्यध्यायन्ममेदमैश्वर्यं मम राज्यं ममान्नाद्यं स्यादिति ।

स एतामग्निष्टोमसम्पदमपश्यत् ।

तयेमा अपो व्युदौहदूर्ध्वश्चावाचीश्च ।

स एतमेव दिनन्दिनं स्तोमं गायन्केवलीदमन्नाद्यमकुरुत ।

स नवभिरेकविंशैरमूरूर्ध्वा उदतभ्नोत् ।

ताः परेण दिवं पर्यौहत् ।

ता एताः पर्यूढा ऋतुशो वर्षन्तीस्तिष्ठन्ति ।

एकविंशत्या त्रिवृद्भिरिमा अवाचीरभ्यतिष्ठत् ।

ताः परेण पृथिवीं पर्यौहत्ता एताः पर्यूढा अनुखायैक उपजीवन्ति २३७