पुरश्चक्रं पथो बिले
तं चक्रमभिवर्तते योऽसम्पन्नेन यजते
पाको यज्ञेन देवयुर्यद्ददाति तदेवास्यलोकमभिगच्छति
इति ।
पाकाः सन्तोऽविजानन्तोऽदेवायतेति हैनांस्तदुवाच ये विराजमत्ययजध्वमिति ।
तदाहुः कुतो यज्ञमतथाः क्वैनं प्रत्यतिष्ठिप इति ।
यत एवैनमतसीति ब्रूयात्तदेवैनं प्रत्यतिष्ठिपमिति ।
पुरुषाद्ध वै यज्ञस्तायते पुरुषे प्रतितिष्ठति ।
अथ ह हृत्स्वाशया आल्लकेयो महावृषो राजा पुत्रं दीक्षयां चकार ।
तस्य ह सोमशुष्मः सात्ययज्ञिरुद्गीथायोढ आस ।
तमु ह महावृषाणां दूता आसस्रुरागच्छ समितिर्वा इयमिति ।
तद्ध प्रधावयन्नुवाचोद्गातरेतं ते पुत्रं परिददानीति ।
स हेष्ट्वा पुनराजगाम ।
स होवाचोद्गातः क्व यज्ञं प्रत्यतिष्ठिपः क्व यजमानं क्वास्य पशूनिति ।
तद्ध न प्रत्युवाच ।
स होवाच पुनर्मे पुत्रं दीक्षयत न वै विद्म यत्र मे पुत्रमकृदिति ।
तमु ह पुनर्दीक्षयां चक्रुः ।
तस्य ह स्वयमेवोज्जगौ ।
स यत्प्रत्यवक्ष्यद्यजमान एव यज्ञं प्रत्यतिष्ठिपं यजमानं वामदेव्ये रथन्तरेऽस्य पशूनिति २३४