द्वितीयो भागः
विराट्सम्पदैव यज्ञेन यजेतेत्याहुः ।
अन्नं वै विराट् ।
अन्नं ह वै देवानां सोमो राजा ।
अन्नमेव तत्कृत्वा देवेभ्यः सोमं राजानं प्रयच्छति ।
न ह वा एषोऽनभिषुतो देवानामन्नम् ।
तमेतदभिषुत्यान्नं कृत्वा देवेभ्यः प्रयच्छति ।
यद्ध वा इह देवेभ्यः करोति तदस्मै देवाः कुर्वन्ति ।
त एनं समृद्धाः प्रजया पशुभिरन्नाद्येन समर्धयन्ति ।
विराण्नातियष्टव्येत्याहुः ।
यो ह वै विराजमतियजते पुनर्ह सोऽमुष्मिल्ँ लोके यजमान आस्ते ।
स रूक्षः परुषो विराजं सम्पिपादयिषन्नीप्सन्ननाप्नुवन्नास्ते ।
क्व हि तदाप्स्यति यदितोऽनाप्त्वा प्रैति ।
परुषानिव हासीनानसितो दैवल उवाच क एत आसत इति ।
ये विराजमत्ययजामहीति होचुः ।
तान्हाभ्युवाद । स रथादवपद्यते २३३