२३२

तदाहुर्यदेकविंशमनु सर्वे यज्ञक्रतवः सन्तिष्ठन्तेऽत्यु वा एकविंशान्युक्थानि रात्रिरेत्यथ केनैषामेकविंशमनु रात्रिः सन्तिष्ठत इति ।

स ब्रूयाद्यदेवैत एकविंशतिश्च त्रिवृतो भवन्ति नव चैकविंशा इति ।

अथ ह स्माह भाल्लवेयः क उ स्विदद्योभयतोज्योतिषा यज्ञक्रतुना यक्ष्यत इति ।

एष ह वा उभयतोज्योतिर्यज्ञक्रतुर्यदतिरात्रः ।

त्रिवृत्पुरस्ताद्बहिष्पवमानं भवति त्रिवृदुपरिष्टाद्रा थन्तरः सन्धिः ।

अग्निर्वै पूर्वस्त्रिवृदादित्य उत्तरः ।

अग्निना वा अयं लोको ज्योतिष्मानादित्येनासौ ।

उभयतोज्योतिषास्य यज्ञक्रतुनेष्टं भवति ज्योतिष्मानस्मिंश्च लोकेऽमुष्मिंश्च भवति य एवं वेद ।

तौ वा एतौ ब्रह्म चैव क्षत्रं च ।

ब्रह्म वै त्रिवृत्क्षत्रं पञ्चदशः ।

तदेतद्ब्रह्म च क्षत्रं च सन्धाय रात्रिं वहतः ।

तदेतद्ब्रह्म च क्षत्रं च सन्धायान्ततः पाप्मानमपहतः ।

तद्यदेतौ स्तोमावन्ततः क्रियेते पाप्मान एवापहत्यै ।

अप पाप्मानं हते य एवं वेद ।

तौ यद्गायत्रीं सम्पद्येते तेजो वै ब्रह्मवर्चसं गायत्री तेजस्येव तद्ब्रह्मवर्चसे प्रतितिष्ठति ।

अथो यजमानमेव तदायुषि प्रतिष्ठापयति सर्वायुष्ट्वाय ।

प्राणो हि गायत्री ।

सर्वमायुरेति य एवं वेद २३२