२३१

तदाहुर्यत्पवमानवन्तोऽन्ये यज्ञक्रतवोऽथ केनैषां रात्रिः पवमानवती भवतीति ।

रथन्तरेण सन्धिनेति ब्रूयात् ।

एतेन ह वै रात्रिः पवमानवती भवति ।

तेन सकृद्धिङ्कृतेन पराचा स्तुवते ।

सकृद्ध्येव पुरस्तात्त्रिवृते हिंउर्वन्ति यत्प्रायणं तदुदयनमसदिति ।

रेतःसिक्तिर्ह त्वै पूर्वस्त्रिवृत्प्रजापतिरुत्तरः ।

आत्मा वै प्रजा पशव एतानि तृचानि ।

प्रजापतिर्वै रथन्तरम् ।

यथा रेत एव सिक्तं स्यान्न प्रजायते तादृक्तद्यत्सकृद्धिङ्कृतैः स्तुवीरन् ।

तद्यत्तृचाय तृचाय हिङ्कुर्वन्ति प्रजात्या एव ।

बहुर्भवति प्रजायते य एवं वेद ।

अथो हैषामेक एव पर्याय आयतनवान्स्यादनायतनौ द्वौ स्यातां यत्सकृद्धिङ्कृतैः स्तुवीरन् ।

तद्यत्तृचाय तृचाय हिङ्कुर्वन्ति तेनैवैषां सर्वरात्रिरायतनवती पवमानवती भवति ।

यथा वा अहस्तथा रात्रिर्यथा रात्रिस्तथाहः ।

पूर्वाह्णो मध्यन्दिनोऽपराह्णः पूर्वरात्रो मध्यरात्रोऽपरात्रः ।

तद्यत्तृचाय तृचाय हिङ्कुर्वन्त्यहोरात्रयोरेव विधृत्यै २३१