२३०

तदाहुर्यत्त्रिवृदेव स्तोमानां लघिष्ठो रथन्तरं साम्नामाश्विनमु वै शस्त्राणां गरिष्ठमथ कस्मात्त्रिवृदेव स्तोमानां रथन्तरं साम्नामाश्विनस्य शस्त्रं प्रत्युद्यन्तुमर्हत इति ।

स ब्रूयात्प्राणो वै त्रिवृतः ।

प्राणेष्विदं सर्वं प्रतिष्टिःतम् ।

प्राणा इदं सर्वं प्रत्युद्यच्छन्ति ।

प्राणा इदं सर्वं प्रतिप्रति ।

इमे वै लोकास्त्रिवृतः ।

एष्विदं लोकेषु सर्वं प्रतिष्टिःतम् ।

इम इदं लोकाः सर्वं प्रत्युद्यच्छन्ति ।

इम इदं लोकाः सर्वं प्रतिप्रति ।

वाग्वै रथन्तरम् ।

वाचीदं सर्वं प्रतिष्ठितम् ।

वागिदं सर्वं प्रत्युद्यच्छति ।

वागिदं सर्वं प्रतिप्रति ।

इयं वै रथन्तरम् ।

अस्यामिदं सर्वं प्रतिष्ठितम् ।

इयमिदं सर्वं प्रत्युद्यच्छति ।

इयमिदं सर्वं प्रतिप्रति ।

तस्मात्त्रिवृदेव स्तोमानां रथन्तरं साम्नामाश्विनस्य शस्त्रं प्रत्युद्यन्तुमर्हत इति २३०