तदाहू रथन्तरमेव प्रथमे तृचे स्याद्वामदेव्यं द्वितीये बृहत्तृतीय एषां लोकानां समारोहायेति ।
इमे वै लोका एतानि सामानि ।
अयमेव लोको रथन्तरमन्तरिक्षं वामदेव्यमसावेव बृहत् ।
तस्मादेवमेव कार्यमेषां लोकाणां समारोहायेति ।
प्राणव्यानोदाना ह खलु वा एतानि सामानि ।
प्राण एव रथन्तरं व्यानो वामदेव्यमुदानो बृहत् ।
तस्मादेवमेव कार्यं प्राणव्यानोदानानां सन्तत्या अव्यवच्छेदायेति ।
अथ यः कामयेत प्रजा मे श्रेयसी स्यादिति रथन्तरमेव प्रथमे तृचे कुर्याद्वामदेवमुत्तरयोः ।
प्रजापतिर्वै वामदेव्यम् ।
प्रजापतिमेव तत्स्वरमन्तत उपयन्ति प्रजननाय ।
बृहता श्रीकामः स्वर्गकामः स्तुवीत ।
श्रीर्वै स्वर्गो लोकः ।
बृहदश्नुते श्रियं गच्छति स्वर्गं लोकं य एवं वेद ।
अथो ह भ्रातृव्यलोकमेव नावजहाति ।
भ्रातृव्यभाजनमिव ह्येषा यद्रा त्रिः ।
रथन्तरेण प्रतिष्ठाकामः स्तुवीत ।
प्रतिष्ठा वै रथन्तरम् ।
प्रत्येव तिष्ठति ।
गायत्रीषु सन्धिना ब्रह्मवर्चसकामः स्तुवीत ।
ब्रह्म वै गायत्री ।
ब्रह्मवर्चस्येव भवति ।
ककुप्सु पुरुषकामः ।
पुरुषो वै ककुप् ।
पुरुषवानेव भवति ।
उष्णिक्षु पशुकामः ।
पशवो वा उष्णिक् ।
पशुमानेव भवति ।
विराट्स्वन्नाद्यकामः ।
अन्नं वै विराट् ।
अन्नाद एव भवति ।
अनुष्टुप्सु प्रतिष्ठाकामः ।
प्रतिष्ठा वा अनुष्टुप् ।
प्रत्येव तिष्ठति ।
पङ्क्तिषु यज्ञकामः ।
यः कामयेत पुनर्मा यज्ञ उपनमेदिति ।
यज्ञो वै पङ्क्तिः ।
पुनरेवैनं यज्ञ उपनमति ।
त्रिष्टुप्स्वोजस्कामो वीर्यकामः ।
ओजो वै वीर्यं त्रिष्टुप् ।
ओजस्व्येव वीर्यवान्भवति ।
जगतीषु पशुकामः ।
पशवो वै जगती ।
पशुमानेव भवति ।
तदाहुरेकस्मिन्वावैतस्य छन्दस्येकस्मिन्कामे स्तुतं भवति य एवं स्तुते ।
अथैतस्य सर्वेषु छन्दस्सु सर्वेषु कामेषु स्तुतं भवति यो बृहतीषु स्तुते ।
बृहतीं ह्येवैतानि सर्वाणि छन्दांस्यभिसम्पद्यन्त इति ।
गायत्री च जगती च ते द्वे बृहत्यौ ।
उष्णिक्च त्रिष्टुप्च ते द्वे बृहत्यौ ।
अनुष्टुप्च पङ्क्तिश्च ते द्वे बृहत्यौ ।
बृहत्येव बृहती ।
तस्माद्बृहतीष्वेव स्तोतव्यमेतेषां सर्वेषां छन्दसां सर्वेषां कामानामुपाप्त्यै २२९