तासु कौत्सम् ।
कुत्सश्च लुशश्चेन्द्रं व्यह्वयेताम् ।
स कुत्सस्य हवमागच्छत् ।
तं शतेन वार्ध्रीभिराण्डयोरबध्नात् ।
तं लुशोऽभ्यवदत्
स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्
प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते
इति ।
ताः सर्वाः संलुप्य लुशमभि प्राद्र वत् ।
तं कुत्सः इन्द्र सुतेषु सोमेषु इत्यन्वाह्वयत् ।
तमभ्यावर्तत ।
तं लुशः इन्द्रा होयी हावे होयी इति ।
तावन्तरातिष्ठत् ।
तावब्रवीदंशमाहरेथामात्मना वामन्यतरस्य पास्यामि महिम्नान्यतरस्येति ।
तथेति ।
तावंशमाहरेतामात्मानमन्यतर उदजयन्महिमानमन्यतरः ।
आत्मानं कुत्स उदजयन्महिमानं लुशः ।
आत्मनान्यतरस्यापिबन्महिम्नान्यतरस्य ।
आत्मना कुत्सस्यापिबन्महिम्ना लुशस्य ।
उभा उ ह त्वाव तस्य तावात्मानाउ यदात्मा च महिमा च ।
तदेतत्सेन्द्रं साम ।
सेन्द्रो हास्य सदेवो यज्ञो भवत्यभ्यस्येन्द्रो यज्ञमावर्तते नास्येन्द्रो यज्ञादपक्रामति य एवं वेद ।
यदु कुत्सोऽपश्यत्तस्मात्कौत्समित्याख्यायते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति २२८