अथ सौमेधम् ।
देवा वा असुरान्हत्वापूता इवामेध्या अमन्यन्त ।
तेऽकामयन्त पूता मेध्याः स्यामेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै पूता मेध्या अभवन् ।
तेऽब्रुवन्सुमेध्या वा अभूमेति ।
तदेव सौमेधस्य सौमेधत्वम् ।
पूतो मेध्यो भवति य एवं वेद ।
तद्वेवाचक्षते पौर्वतिथिमिति ।
पूर्वतिथिर्वा आर्चनानसश्श्यावाश्वात्कनीयान् ।
सोऽकामयताव पशून्रुन्धीय भूमानं पशूनां गच्छेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः
इति ।
सहस्रमेव पशूनवारुन्द्ध भूमानं पशूनामगच्छत् ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे भूमानं पशूनां गच्छति य एवं वेद ।
यदु पूर्वतिथिरार्चनाससोऽपश्यत्तस्मात्पौर्वतिथिमित्याख्यायते ।
इन्द्र सुतेषु सोमेषु इत्युष्णिहो भवन्ति ।
देवपुरा वा एषा यदुष्णिहः ।
ता यदन्ततः क्रियन्ते देवपुरामेवैतदन्ततः परिहरन्ति पशूनां गुप्त्या असुराणामनभ्यवचाराय २२७