यज्ञस्तनौ वा एते सामनी ।
एताभ्यां वा इन्द्रो यज्ञं सर्वान्कामानदुग्ध ।
दुहे ह वै यज्ञं सर्वान्कामान्य एवं वेद ।
यजुर्निधनं वा एतयोरन्यतरत्सामनिधनमन्यतरत् ।
तद्यद्घृतश्चुन्निधनं तद्यजुर्निधनमथ यन्मधुश्चुन्निधनं तत्सामनिधनम् ।
या यजुषश्च साम्नश्चर्धिरृध्नोति तामृद्धिमाप्नोति तान्कामान्य एवं वेद ।
तदाहुर्यदाज्येन दिवा चरन्त्यथ केनैषां रात्रिराज्यवती भवतीति ।
घृतश्चुन्निधनेनेति ब्रूयात् ।
एतेन ह वै रात्रिराज्यवती भवति ।
यदु घृतश्चुच्च मधुश्चुच्चाङ्गिरसावपश्यतां तस्मादेवमाख्यायते २२५