२२४

इदं ह्यन्वोजसा इद्घृतश्चुन्निधनम् ।

घृतश्चुता च वै मधुश्चुता च देवा यत्र यत्रैषां यज्ञस्योपादस्यत्तदाप्याययन्त ।

तस्मादाहुः सोमस्यैवांशुराप्यायस्वेति ।

उपदस्तेवैषा यद्रा त्रिः ।

तद्यद्घृतश्चुन्निधनं भवत्यैवैनमेतेन प्याययन्ति ।

घृतश्चुच्च वै मधुश्चुच्चाङ्गिरसां स्वर्गं लोकं यतामहीयेताम् ।

तावकामयेतामनूत्पतेव स्वर्गं लोकमिति ।

तौ तपोऽतप्येताम् ।

तावेते सामनी अपश्यताम् ।

ताभ्यामस्तुवाताम् ।

तौ स्तुत्वैव घृतश्चुते मधुश्चुत इत्येव स्वर्गं लोकमनूदपतताम् ।

अन्तो वै पयसां घृतमन्तः स्वर्गो लोकानाम् ।

अन्तो वै रसानां मध्वन्तः स्वर्गो लोकानाम् ।

अन्त्याभ्यां वाव तौ तत्सामभ्यामन्त्यं स्वर्गं लोकमाश्नुवाताम् ।

अन्त्याभ्यामेवैतत्सामभ्यामन्त्यं स्वर्गं लोकमश्नुते य एवं वेद ।

पशवो ह खलु वै घृतश्चुतः पशवो मधुश्चुतः ।

पशून्वाव तौ तदेताभ्यामवारुन्धाताम् ।

तैरु पशुभिरिष्ट्वा स्वर्गमेव लोकमगच्छताम् ।

ते एते पशव्ये स्वर्ग्ये सामनी ।

अव पशून्रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद २२४