इदं वसो सुतमन्धः इति गारम् ।
देवेभ्यो वा असुरा गरान्प्राकिरन् ।
तानविद्वांसोऽगिरन्नन्नमेव मन्यमानाः ।
ते गरगिरोऽमन्यन्त ।
तेऽकामयन्तापेमान्गरान्गीर्णान्हनीमहीति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनेमान्गरान्गीर्णानपाघ्नत ।
त एवेमे गिरयोऽभवन् ।
तद्यद्गरान्गीर्णानपाघ्नत तदेव गारस्य गारत्वम् ।
स यो गरगीर्मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नमशित्वा स एतेन स्तुवीत ।
अप हैव तं गरं गीर्णं हते ।
यदेनेन किं च पापं कृतं भवति तदपहते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति २२३