अभि त्वा वृषभा सुते इत्यार्षभम् ।
इन्द्रो वा अकामयतर्षभः सर्वासां प्रजानां स्यामृषभतां गच्छेयमिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स ऋषभः सर्वासां प्रजानामभवदृषभतां अगच्छत् ।
तदेवार्षभस्यार्षभत्वम् ।
ऋषभ एव स्वानां भवत्यृषभतां गच्छति य एवं वेद ।
तद्वेवाचक्षते दैवोदासमिति ।
दिवोदासो वै वाध्र्यश्विरकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय राजा सन्नृषिः स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध राजा सन्नृषिरभवत् ।
उभयमेव ब्रह्म च क्षत्रं चावरुन्द्धे राजा सन्नृषिर्भवति य एवं वेद ।
यदु दिवोदासो वाध्र्यश्विरपश्यत्तस्माद्दैवोदासमित्याख्यायते २२२