तामब्रवीदपाले किङ्कामासीति ।
साब्रवीद्
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय
शिरस्ततस्योर्वरामादिदं म उपोदिरे
सर्वा ता रोमशा कृधि
इति ।
खलतिर्हास्यै पितास ।
तं हाखलतिं चकार ।
उर्वरा हास्य न जज्ञे ।
सो ह जज्ञे ।
उपस्थे हास्यै रोमाणि नासुः ।
तान्यु ह जज्ञिरे ।
तां खे रथस्यात्यबृहत् ।
सा गोधाभवत् ।
तां खेऽनसोऽत्यबृहत् ।
सा कृकलास्यभवत् ।
तां खे युगस्यात्यबृहत् ।
सा संश्लिष्टिकाभवत् ।
तदेषाभ्यनूच्यते
खे रथस्य खेऽनसः खे युगस्य शतक्रतो
अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम्
इति ।
तस्यै ह यत्कल्याणतमं रूपाणां तद्रू पमास ।
तदेतत्कामसनि साम ।
एतं वै सा काममकामयत ।
सोऽस्यै कामः समार्ध्यत ।
यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।
यद्वपालात्रेय्यपश्यत्तस्मादापालमित्याख्यायते २२१