आ तू न इन्द्र क्षुमन्तमिति वैणवम् । वेणुर्वै वैश्वामित्रोऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै सोऽग्र्यो मुख्यो ब्रह्मवर्चस्यभवत् ।
अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद ।
यद्वेणुर्वैश्वामित्रोऽपश्यत्तस्माद्वैणवमित्याख्यायते ।
तद्वेवाचक्षत आपालमिति ।
अपाला ह वा आत्रेयी तिलका वारुश्छविर्वाप्यास ।
साकामयताप पापं वर्णं हनीयेति ।
सैतत्सामापश्यत् ।
तेनास्तुत ।
सा तीर्थमभ्यवयती सोमांशुमविन्दत् ।
तं समखादत् ।
तस्यै ह ग्रावाण इव दन्ता ऊदुः ।
स इन्द्र आद्र वद्ग्रावाणो वै वदन्तीति ।
साभिव्याहरत्
कन्या वारवायती सोममपि स्रुताविदत्
अस्तं भरन्त्यब्रवीदिन्द्रा य सुनवै त्वा शक्राय सुनवै त्वा
इति ।
अस्यै वा इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङावर्तत ।
तमब्रवीद्
असौ य एषि वीरको गृहं-गृहं विचाकशत्
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्
इति ।
अनाद्रि यमाणैवैतमब्रवीद्
आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि
इति ।
पुरा मा सार्धयर्चापाला स्तौतीत्यपपर्यावर्तत ।
शनैरिव शनकैरिवेन्द्रा येन्दो परि स्रव
इत्येवास्यै मुखात्सोमं निरधयत् ।
सोमपीथ इव ह वा अस्य स भवति य एवं विद्वान्स्त्रियै मुखमुपजिघ्रति २२०