२१९

तदु होवाच जानश्रुतेयो वीर्यं वा एतत्साम्नो यन्निधनम् ।

तद्विक्षुभ्नुयुस्तद्वियुञ्ज्युर्यन्नानोपेयुः ।

सार्धमेवोपेत्यानि साम्नः सवीर्यत्वायेति ।

तानि चतुरक्षराणि भवन्ति ।

याश्चतस्रो दिशोऽस्मिल्ँ लोके तासु सर्वासु प्रतितिष्ठाम याश्चतस्रो दिशोऽन्तरिक्षे लोके तासु सर्वासु प्रतितिष्ठाम याश्चतस्रोऽमुष्मिल्ँ लोके तासु सर्वासु प्रतितिष्ठामेति ।

और्ध्वसद्मनेन ह खलु वै रात्रिः पृष्ठिनीदं वै रथन्तरमन्तरिक्षं वामदेव्यमद एव बृहत् ।

य उ ह वा एषां लोकानां श्रेष्ठास्ते पृष्ठानि ।

तेषामेको भवति य एवं वेद ।

प्रजातिर्ह खलु वा ऊर्ध्वसम ।

अश्नुते प्रजापतितां य एवं वेद २१९