२१८

अयं ते इन्द्र सोमः इति ।

पुनःप्रोक्तिर्ह वा एषा हविषः ।

अयं नु ते परो यज्ञः इति ह वा एतदिन्द्रा य प्राहुः ।

द्वितीयं ह्येतद्धविः क्रियते यद्रा त्रिः ।

तास्वौर्ध्वसद्मनम् ।

और्ध्वसद्मनेन वै देवा एषु लोकेषूर्ध्वा असीदन् ।

यदेषु लोकेषूर्ध्वा असीदंस्तदौर्ध्वसद्मस्यौर्ध्वसद्मनत्वम् ।

तदेतत्स्वर्ग्यं साम ।

ऊर्ध्व एवैतेन स्वर्गे लोके सीदति य एवं वेद ।

और्ध्वसद्मनेन वै देवा असुराणां सुवृक्तिभिः इति पशूनवृञ्जत नृमादनमिति वज्रं प्राहरन्भरेष्वा इति स्वर्गं लोकमारोहन् ।

और्ध्वसद्मनेनैव द्विषतो भ्रातृव्यस्य सुवृक्तिभिः इत्येव पशून्वृङ्क्ते नृमादनमिति वज्रं प्रहरति भरेष्वा इति स्वर्गं लोकमारोहति ।

तान्याहुर्नानोपेत्यानि ।

नानेव वा इमे लोकाः ।

एषां लोकानां विधृत्या इति ।

सुवृक्तिभिः इति वा अयं लोकः नृमादनमित्यन्तरिक्षं भरेष्वा इत्यसौ ।

तस्मान्नानोपेत्यान्येषां लोकानां विधृत्यै २१८