२१७

तासु श्रौतकक्षम् ।

श्रुतकक्षः काक्षीवतः पशुकामः तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स एतामिळां उपैत् ।

पशवो वा इळा ।

ततो वै स पशूनवारुन्द्ध ।

तदेतत्पशव्यं साम ।

अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।

पुनर्नितुन्नछन्दो भवति ।

यत्र यत्र वै देवाश्छन्दसां रसमन्वविन्दंस्तत्पुनर्नितुन्नमकुर्वन् ।

तत्पुनरभ्याघ्नन् ।

धीतेवैषा यद्रा त्रिः ।

तद्यत्पुनर्नितुन्नछन्दो भवति रसमेवास्यामेतद्दधति ।

रसस्यैवैषानुवृत्तिः ।

यदु श्रुतकक्षः काक्षीवतोऽपश्यत्तस्माच्छ्रौतकक्षमित्याख्यायते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठति २१७